|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.11. अध्यायः 011
Mahabharata - Strii Parva - Chapter Topics
युधिष्ठिरेण कृष्णादिभिः सह धृतराष्ट्रसमीपमेत्याभिवादनम्॥ 1 ॥ धृतराष्ट्रेण युधिष्ठिरं मृदुलमालिङ्घ्य पश्चाद्भावज्ञेन कृष्णेन पुरतः स्थापितलोहभीमस्य दृढालिङ्गनेन भञ्जनम्॥ 2 ॥

Mahabharata - Strii Parva - Chapter Text
वैशम्पायन उवाच। 11-11-0x(5338)(65103)
हतेषु सर्वेसैन्येषु धर्मराजो युधिष्ठिरः।
शुश्रुवे पितरं वृद्धं निर्यान्तं गजसाह्वयात्॥ 11-11-1(65104)
सोऽभ्ययात्पुत्रशोकार्तं पुत्रशोकपरिप्लुतः।
शोचमानो महाराज भ्रातृभिः सहितस्तदा॥ 11-11-2(65105)
अन्वीयमानो वीरेण दाशार्हेण महात्मना।
युयुधानेन च तथा तथैव च युयुत्सुना॥ 11-11-3(65106)
तमन्वगात्सुदुःखार्ता द्रौपदीशोककर्शिता।
सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः॥ 11-11-4(65107)
सङ्ग्राममनु बृन्दानि स्त्रीणां भरतसत्तम्।
कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह॥ 11-11-5(65108)
ताभिः परिवृतो राजा क्रोशन्तीभिः सहस्रशः।
ऊर्ध्वबाहुभिरार्ताभी रुदतीभिः प्रियाप्रियैः॥ 11-11-6(65109)
क नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता।
यच्चावधीत्पितॄन्भ्रातॄन्गुरुपुत्रान्सखीनपि॥ 11-11-7(65110)
घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम्।
मनस्तेऽभून्महाबाहो हत्वा चापि जयद्रथम्॥ 11-11-8(65111)
किं नु राज्येन ते कार्यं पितॄन्भ्रातॄनपश्यतः।
अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत॥ 11-11-9(65112)
वैशम्पायन उवाच। 11-11-10x(5339)
अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव।
ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः॥ 11-11-10(65113)
ततोऽभिवाद्य पितरं क्रमेणामित्रकर्शनाः।
न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः॥ 11-11-11(65114)
तमात्मजान्तकरणं पिता पुत्रवधार्दितः।
अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे॥ 11-11-12(65115)
धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत।
दुष्टात्मा भीममन्वैच्छद्दिधक्षुरिव पावकः॥ 11-11-13(65116)
स कोपपावकस्तस्य शोकवायुसमीरितः।
भीमसेनमयं दावं दिधक्षुरिव दृश्यते॥ 11-11-14(65117)
तस्य संकल्पमाज्ञाय भीमं प्रत्यशुभं हरिः।
भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम्॥ 11-11-15(65118)
प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः।
संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः॥ 11-11-16(65119)
उपगुह्यैव पाणिभ्यां भीमसेनमयस्मयम्।
बभञ्ज बलवान्राजा मन्यमानो वृकोदरम्॥ 11-11-17(65120)
नागायुतसमप्राणः स राजा भीममायसम्।
भङ्क्तत्वा विमथितोरस्कः सुस्राव रुधिरं मुखात्॥ 11-11-18(65121)
ततः पपात मेदिन्यां तथैव रुधिरोक्षितः।
प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः॥ 11-11-19(65122)
प्रत्यगृह्णाच्च तं विद्वान्सूतो गावल्गणिस्तदा।
मैवमित्यब्रवीच्चैनं शमयन्सान्त्वयन्निव॥ 11-11-20(65123)
हतो भीम इति ज्ञात्वा गतमन्युर्महामनाः।
हाहाभीमेति चुक्रोश नृपः शोकसमन्वितः॥ 11-11-21(65124)
तं विदित्वा गतक्रोधं भीमसेनवधार्दितम्।
वासुदेवो वरः पुंसामिदं वचनमब्रवीत्॥ 11-11-22(65125)
मा शुचो धृतराष्ट्र त्वं नैव भीमस्त्वया हतः।
आयसी प्रतिमा ह्येषा त्वया निष्पातिता विभो॥ 11-11-23(65126)
त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ।
मयाऽपकृष्टः कौन्तेयो मृत्योर्दंष्ट्रान्तरं गतः॥ 11-11-24(65127)
न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन।
कः सहेत महाबाहो बाह्वोर्विग्रहणं नरः॥ 11-11-25(65128)
यथान्तकमनुप्राप्य जीवन्कश्चिन्न मुच्यते।
एवं बाह्वन्तरं प्राप्य तव जीवेन्न कश्चन॥ 11-11-26(65129)
तस्मात्पुत्रेण या तेऽसौ प्रतिमा कारिताऽऽयसी।
भीमस्य सेयं कौरव्य तवैवोपहृता मया॥ 11-11-27(65130)
पुत्रशोकाभिसन्तप्तं धर्मादपकृतं मनः।
तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि॥ 11-11-28(65131)
न त्वेतत्ते क्षमं राजन्हन्यास्त्वं यद्वृकोदरम्।
न हि पुत्रा महाराज जीवेयुस्ते कथञ्चन॥ 11-11-29(65132)
तस्माद्यत्कृतमस्माभिर्मन्यमानैः शमं प्रति।
अनुमन्यस्व तत्सर्वं मा च शोके मनः कृथाः॥ ॥ 11-11-30(65133)
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि एकादशोऽध्यायः॥ 11 ॥
Mahabharata - Strii Parva - Chapter Footnotes
11-11-5 स गङ्गामन्विति झ.पाठः॥ 11-11-6 प्रियाप्रियैः पाण्डवानां प्रियाः अभिमन्युप्रभृतयः अप्रियाः दुर्योधनादयः तैर्हेतुभिः क्रोशन्तीभिरिति सम्बन्धः॥ 11-11-15 आक्षिप्य निवार्य। आयसं लोहमयम्॥ 11-11-21 स तु कोपं समुत्सृज्येति झ.पाठः॥ 11-11-28 पुत्रेति धर्मादपकृतमालिङ्गनच्छलेन भीमवधः कर्तव्य इत्याशया॥ 11-11-11 एकादशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|